-
Notifications
You must be signed in to change notification settings - Fork 0
/
Copy pathadhivAcaspatyam.txt
21 lines (21 loc) · 6.35 KB
/
adhivAcaspatyam.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
अधिवाचस्पत्यम्
(सव्युत्पत्तिसंस्कृतशब्दकोशः)
पण्डिततारानाथतर्कवाचस्पतिः स्वकीयेन निरन्तरप्रयत्नेन वाचस्पत्याभिधं कोशं बहूनि वर्षाणि प्रयत्य ५४४२ ॠ४ पृष्ठात्मकेन रूपेण मुद्रापयामास। कोशः अयं संस्कृताध्ययनशाखानां वेद - वेदाङ्ग - पुराण - उपपुराण - दर्शन - तन्त्र - अर्थशास्त्र - अलंकारशास्त्र - छन्दशास्त्र - सङ्गीतशास्त्र - सैन्यविद्या - पाकविद्या - शिक्षा - कल्प - हस्तिशास्त्र - हठयोग - वास्तुशास्त्राद्यानां पारिभाषिकशब्दान्, अन्यांश्च संस्कृतभाषासमान्यशब्दान् सव्युत्पत्ति सविवरणञ्च समुपस्थापयति। न केवलमेतत् चार्वाक - योगाचार - वैभाषिक - सौत्रान्तिक - आर्हत - रामानुज - माध्व - पाशुपत - शैव - प्रत्यभिज्ञा - रसेश्वर - पाणिनीय - न्याय - वैशेषिक - मीमांसा - सांख्य - पातञ्जलयोग - वेदान्तादि नानाशास्त्राणां पारिभाषिकशब्दा अपि अत्र सविशेषं निरूपितास्सन्ति।
भाषाध्ययने कोशः अवश्याध्येयः कश्चिदंशः। प्रपञ्चस्य प्राचीनतमभाषायां गैर्वाण्यां सन्त्यनेके कोषाः अमरकोश-विश्वरूपकोश-नानार्थकोशादयः ये प्रतिशब्दं पर्यायपदानि निर्दिशन्ति। किन्त्वयं वाचस्पत्याभिधेयः विशिष्टः कोशः न तथा पर्यायपदनिर्देशकः। किन्तु पदानां व्युत्पत्ति - व्याकरणविशेषांश - प्रकृतिप्रत्ययादि निरूपणद्वारा अर्थमभिधत्ते। अन्ये कोशाः आप्टे प्रभृतिमहाशयैः रचिताः शब्दार्थान् निर्दिशन्ति। अयं तु कोशः अर्थेन सह व्याकरणादिविशेषांशान् समुपस्थापयतीति वैशिष्ट्यमत्र।
कोशस्यास्य प्रकाशमनु ग्रन्थः अयं भारताद्बहिः यूरोपादिखण्डेषु सुख्यातिमवाप। विद्वांसः ग्रन्थममुं प्राप्तुकामाः अस्यान्वेषणे सदैवतत्पराः यद्धि ग्रन्थस्यास्य प्रसिद्धिं स्वयं कथयति। कोशः अत्र विल्सन्महाशयस्य शब्दकोशे विद्यमानाः शब्दाः, शब्दकल्पद्रुमस्थाश्शब्दाः व्युत्पत्तिप्रदर्शनपूर्वकमेव केवलं न अन्तर्भूताः किन्तु वैदिकाश्शब्दाः बोट्लिक्महाशयस्य सेंट्पीटर्स्बर्ग् संस्कृत-जर्मन्कोशस्था अपि शब्दाः अत्र स्थानं प्राप्ताः। एतदेवास्य ग्रन्थस्य सुमहद्वैशिष्ट्यम्।
वाचस्पत्यस्थविषयाः
१. अकारादिक्रमेण शब्दसूची, तदर्थाश्च
२. शब्दलिङ्गनिर्देशः
३. प्रकृतिप्रत्ययनिर्देशः
४. व्युत्पन्नशब्दनिर्देशः
५. विल्सन्शब्दकोश-शब्दकल्पद्रुमादि कोशस्थाः तदन्ये च शब्दाः
६. अन्यत्र प्रसिद्धकोशेषु अविद्यमाना अपि वैदिकशब्दाः। पूर्वनिर्दिष्टाः शास्त्रीयपारिभाषिकशब्दाः
७. गृह्यश्रौतसूत्रपारिभाषिकशब्दाः
८. स्मृतिपारिभाषिकशब्दाः
९. पुराणोपपुराणविषयः
१०. रामायणमहाभारतस्थविषयाः
११. राज्ञां वंशादिवर्णनं यथा पुराणोपपुराणादिषु
१२. ब्रह्माण्डनिरूपणम्
१३. आयुर्वेदपारिभाषिकशब्दाः, आयुर्विज्ञानपारिभाषिकशब्दाश्च
१४. निर्दिष्टानां शब्दानां संस्कृतवाङ्मयतः उद्धरणानि
एवञ्च वस्तुतः परिशील्यमाने ग्रन्थः अयं संस्कृतविद्याजिज्ञासूनां शब्दजिज्ञासूनां च असदृशः कोशः।