-
Notifications
You must be signed in to change notification settings - Fork 0
/
Copy pathvAcaspatyapariyojanAmadhikRtya.txt
17 lines (16 loc) · 7.08 KB
/
vAcaspatyapariyojanAmadhikRtya.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
वाचस्पत्यपरियोजनामधिकृत्य
अन्तर्जाले वाचस्पत्यम्, सान्द्रमुद्रिकावाचस्पत्यमिति परियोजना विश्वद्यालयानुदानायोगस्य पारम्परिकशास्त्राध्ययनसमुत्कर्षसंरक्षणपरियोजनायां २००५ वर्षस्य जूलै मासे नवमदिनांके समारब्धा। ततः अपि पूर्वं २००४ वर्षतः वाचस्पत्यग्रन्थस्य सङ्गणकयन्त्रारोपणं संस्कृत् नेट् केन्द्रे समारब्धमासीत्।
विश्वविद्यालयानुदानायोगस्य धनसाहाय्येन प्रवर्त्यमानायां परियोजनायां निर्मितम् अन्तर्जालवाचस्पत्यं सान्द्रमुद्रिकावाचस्पत्यम् इति द्वयं विदुषाम् अभिप्रायग्रहणाय उपयोगाय च समुपस्थाप्यते । सततमस्य परिवर्धनं परिष्करणञ्च काले काले भविता।
॥॥॥
१८८४ वर्षे पण्डिततारानाथतर्कवाचस्पतिमहाशयेन वाचस्पत्यकोशः कालिकता प्राकाश्यमानीतः। ततःपरं गतेषु वर्षेषु जनानाम् अभिरुचिमभिलक्ष्य त्रिवारं पुनः पुनः प्रकाशितः अयं कोशः। किन्तु प्राचीनमुद्राक्षराणाम् अस्पष्टत्वात् पुनःप्रकाशितान्यपि प्रकाशनानि अस्पष्टानि जातानि। प्रकाशयितारः पुनरुट्टंकनम् अकृत्वैव प्रकाशनमकार्षुः। येन कोशस्थानि कानिचनपदानि कतिचन वाक्यानि, उद्धरणानि च अद्यत्वे अस्पष्टप्रायतां गतानि। अत एव ग्रन्थविच्युतिभीतिः विवर्धते। तस्मादेव ग्रन्थस्यास्य भूयो भूयः प्रसारमभिकांक्षता राष्ट्रियसंस्कृतविद्यापीठेनानेन अन्तर्जालवाचस्पत्यं सान्द्रमुद्रिकावाचस्पत्यमिति द्वयं परियोजना रूपेण स्वीकृतमभूत्। तस्य योजनविशेषस्य फलतया इदमत्र समुस्थापितम्।
वाचस्पत्यस्य वैद्युतीकरणमहत्त्वम्
प्रकाशितस्य ग्रन्थस्य विक्रयणमूल्यं षट्सहस्रं रूप्यकाणि। एतच्च पठितुः विद्यार्थिनः अथवा सामान्यस्य जनस्य च महार्घं भवति। पठितारः महार्घमपि ग्रन्थममुमभिलषन्त्येव पठितुम्। अत एव अध्येतृभिः जनैः विद्यार्थिभिः अध्यापकैर्वा ग्रन्थालयः उपसर्पणीयो भवति। एतच्च विज्ञाय प्रतिजनम् उपयोक्तारञ्च उपलक्ष्य न्यूनेन मूल्येन विद्वत्कार्याय च एतादृशःकोशः अत्यावश्यकः इति मत्वा प्रसाराय अन्तर्जालवाचस्पत्यस्य सान्द्रमुद्रिकावाचस्पत्यस्य च प्रसारः कर्तुमिष्यते। उभाभ्यामपि वाचस्पत्यकोशः न्यूनेन मूल्येन प्राप्यते। महान् ग्रन्थराशिः वाचस्पत्ये निहितः वैद्युतीकरणेन संरक्ष्यते च। अन्येषामपि रामायण-महाभारतादिग्रन्थानामध्ययनावसरे कोशः अयं साहाय्यग्रन्थरूपेण समाश्रयितुं शक्यः। न केवलं भारतीयाः अपि तु अन्तर्जालमाश्रित्य अन्ये अपि नानादेशस्थाः कोशममुं प्राप्नुयुः इति समाशास्यते।
परियोजनायाः उद्देश्यम्
१. वाचस्पत्यस्य नवीनसम्पादनम्, अन्तर्जालसान्द्रमुद्रिकावाचस्पत्यप्रकाशनम्
२. नानापदानां सुलभमन्वेषणाय योजनानिर्माणम्
३. वाचस्पत्यसंरक्षणम्
४. नानाविदुषां छात्राणां च उपयोगाय वाचस्पत्यस्य प्रसारः।
५. पाठनयोग्यवाचस्पत्यग्रन्थप्रतिकृतिसंरक्षणम्
परियोजनाभिमतम्
अनया परियोजनया वाचस्पत्यस्य अन्तर्जाल-सान्द्रमुद्रिकाप्रकाशनं विदुषामभिप्रायाविषकरणाय निर्मितम्। भाविनि काले कार्यस्वरूपं विमृश्य ग्रन्थे विद्यमानान् देषाञ्च परिगणय्य यथाधनसाहाय्यं ग्रन्थस्यास्य
सर्वथा सर्वशः निर्दुष्टम् अत्युत्तमं स्वरूपं प्रस्तोष्यते शक्यसंभवे मुद्रितप्रतिकृतिरपि समर्प्यते।